शनिवार, 29 अगस्त 2020

मन्दः मन्थरकः

======================

लेखकः--- योगाचार्य डॉ प्रवीण कुमार शास्त्री

कस्मिंश्चित् ग्रामे मन्थरकः नाम तन्तुवायः आसीत् । स प्रतिदिनं वस्त्रं वयति स्म । कदाचित् तस्य वयनयन्त्रस्य काष्ठनिर्मितं दण्डः भग्नः । नूतनदण्डम् आनेतुं मन्थरकः परशुं गृहीत्वा अरण्यं गतवान् । तत्र स एकम् उत्तमं वृक्षं दृष्टवान् । तन कर्तयितुं सः परशुप्रयोगं कृतवान् । लेखकः--- योगाचार्य डॉ प्रवीण कुमार शास्त्री

तस्मिन् वृक्षे काचित् देवता वसति स्म । सा मन्थरकम् उक्तवती , "भोः ! एषः वृक्षः मम आश्रयस्थानम् अस्ति । अतः भवान् एतं मा कर्तयतु । अहं भवते एकं वरं ददामि । भवान् यद् इच्छति, तद् याचतु" इति । योगाचार्य डॉ प्रवीण कुमार शास्त्री

मन्थरकः उक्तवान्, "अहं विचारयित्वा वदिष्यामि" । अनन्तरं सः मित्रस्य नापितस्य गृहं गतवान् । तं पृष्टवान्, "भोः मित्र ! देवता वरं दातुं सज्जा अस्ति । कं वरं याचानि ?"

नापितः उक्तवान्, "भवान् राज्यं याचतु । तेन महाराजत्वं प्राप्यते । अहं भवतः मन्त्री भविष्यामि ।"

"अस्तु" इति उक्त्वा मन्थरकः गृहमागतवान् । पत्नीं पृष्टवान्, "प्रिये ! देवता वरं ददाति । नापितः वदति--- राज्यं याचतु । किं याचानि ?" लेखकः--- योगाचार्य डॉ प्रवीण कुमार शास्त्री


सा उक्तवती, "नापितः मूर्खः । सः किमपि न जानाति । राज्यस्य निर्वहणे बहु कष्टं भवति । अतः राज्यं मास्तु । इदानीं भवान् प्रतिदिनम् एकं वस्त्रं वयति किल । तेन अस्माकम् आजीविका कष्टेन प्रचलति । भवान् देवताम् अन्यत् बाहुद्वयं, द्वितीयं शिरः च याचतु । तदा भवान् प्रतिदिनं वस्त्रद्वयं कर्तुं शक्नोति ।  एकस्य वस्त्रस्य धनं दैनन्दिन-उपयोगार्थं भवति । द्वितीयस्य धनं सङ्ग्रहीतुं शक्यते । तदा वयं सुखेन जीवनं यापयामः ।"

मन्थरकः एतत् अङ्गीकृतवान् । स वनं गत्वा देवतां याचितवान्, "भगवति ! मह्यम् अन्यत् बाहुद्वयं, द्वितीयं शिरः च यच्छतु ।"

देवता उक्तवती, "तथास्तु" ।  लेखकः--- योगाचार्य डॉ प्रवीण कुमार शास्त्री

तत्क्षणमेव मन्थरकस्य अन्यत् बाहुद्वयं, द्वितीयं शिरश्च उत्पन्नम् । स सन्तोषेण ग्राममागतवान् । परन्तु जनाः विचित्राकारं तं दृष्ट्वा राक्षसं च मत्वा तं दण्डेन ताडयित्वा मारितवन्तः ।

गुरुवार, 20 अगस्त 2020

नष्टा मन्दविसर्पिणी

======================


कश्चन महाराजः आसीत् । तस्य शय्यायां मन्दविसर्पिणी नाम यूका (जूआं) वसति स्म । सा यूका महाराजस्य रक्तम् आस्वादयन्ती सुखेन जीवति स्म । लेखकः--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री 

एकदा अग्निमुखः नाम कश्चित् मत्कुणः तां शय्यायामागतवान् ।तं दृष्ट्वा मन्दविसर्पिणी उक्तवती ---- "भो मत्कुण ! भवान् किमर्थमत्र आगतवान् ? भवता अत्र न स्थातव्यम् । शीघ्रमेव इतः गच्छतु" इति । लेखकः--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री 


ततः अग्निमुखः उक्तवान् --- "आर्ये ! अहं बहुजनानां रक्तम् अस्वादितवान् । परन्तु कुत्रापि मधुरं रक्तं न लब्धम् । भवती अनुमतिं ददाति चेद् एतस्य महाराजस्य मधुरं रक्तं पीत्वा यम जीवनं सार्थकं करोमीति" । लेखकः--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री 

मन्दविसर्पिणी उक्तवती --- "भोः अग्निमुख ! अहम् अनुमतिं ददामि । परन्तु महाराजः यदा निद्रावशः भवति, तथा अहं प्रथमं तस्य रक्तं पिबामि । तदनन्तरम् एव भवता रक्तं पातव्यम् । त्वरा न करणीयम्" इति । लेखकः--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री 

"अस्तु, अहं तथैव करोमि ।" इति अग्निमुखः अङ्गीकृतवान् ।

किञ्चित् कालानन्तरं महाराजः तत्रागतवान्, शय्यायां सुप्तवान् च । महाराजस्य इतोऽपि निद्रा नागता आसीत् । तदानीमेव जिह्वाचपलं निरोद्धम् असमर्थः अग्निमुखः तं दष्टवान् महाराजः झटिति शय्यातः उत्थितवान् । सेवकान् आज्ञापितवान् --- "भोः सेवकाः ! शय्यायां किमस्तीति भवन्तः शीघ्रमेव पश्यन्तु" इति ।

सर्वेऽपि सेवकाः सर्वाणि शय्यावस्त्राणि परिशीलितवन्तः । अत्रान्तरे मत्कुणः रन्ध्रं प्रविष्टवान् । सेवकाः वस्त्रमध्ये स्थितां मन्दविसर्पिणी दृष्टवन्तः, मारितवन्तश्च ।

एवं दुष्टाय मत्कुणाय आश्रयस्य दानेन मन्दविसर्पिणी स्वयं नष्टा । अतः प्राज्ञैः उच्यते ---- "दुष्टेभ्यः आश्रयः न दातव्यः" इति ।

शनिवार, 15 अगस्त 2020

क्रोध से निराशा

===================

चंद्रपुर का राजा चंद्रभान सिंह एक बार अपने कुछ सैनिकों के साथ शिकार खेलने के लिए जंगल में गया । वह जंगल में चलते-चलते बहुत दूर चला गया । उसके सैनिक इधर-उधर बिखर गए और वह अकेला हो गया ।कुछ समय के बाद वह प्यास से व्याकुल हो गया । वह पानी के लिए तरसने लगा । पानी की खोज में वह इधर उधर भटकने लगा ।

तभी उसकी नजर एक वृक्ष पर पड़ी, जहां एक डाली से टप-टप करती पानी की बूंद गिर रही थी । राजा उस वृक्ष के पास गया । नीचे पड़े पत्तों का दोना बनाकर उन बूंदों से दोने को भरने लगा ।

कुछ समय के बाद वह दोना भर गया और राजा प्रसन्न होते हुए जैसे ही पानी को पीने के लिए दोने को मुंह के लगाया । एक तोता टे-टे करते आया और झपट्टा मारकर दोने को नीचे गिरा दिया ।

राजा निराश हो गया । वह वापस उस खाली दोने को भरने लगा| काफी देर के बाद वह दोना फिर भर गया और राजा पुन: हर्षचित्त होकर जैसे ही उस पानी को पीने के लिए दोने को उठाया तो तोते ने वापस उसे गिरा दिया| 

      राजा हताशा के वशीभूत होकर बोला कि मुझे जोर से प्यास लगी है और ये दुष्ट पक्षी मेरी सारी मेहनत पर पानी फेर रहा है ।  मैं इसे छोडूंगा नहीं । राजा ने निशाना साधकर तोते पर बात छोड़ा, निशाना सही लगा और तोते के प्राण निकल गए ।


राजा ने सोचा चलो उस मूर्ख पक्षी से पीछा छूटा ।

अब मैं पानी इकठ्ठा कर अपनी प्यास बुझाऊँगा ।

यह सोचकर वह डाली के वापस पानी इकट्ठा होने वाली जगह पहुंचा तो उसने देखा कि  उस डाली पर एक भयानक विषधर सांप सोया हुआ था और उस सांप के मुंह से लार टपक रही थी|

 राजा जिसको पानी समझ रहा था वह उस विषधर सर्प की जहरीली लार थी ।

राजा का मन ग्लानि से भर गया ।

उसने सोचा, काश ! मैंने संतों के बताये उत्तम क्षमा मार्ग को धारण कर क्रोध पर नियंत्रण किया होता तो ये मेरे हितैषी निर्दोष पक्षी की जान नहीं जाती|

भारवि कवि ने ऐसे लोगों के लिए कहा है :---

सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥

किसी कार्य को बिना सोचे-विचारे अनायास नहीं करना चाहिए । विवेकहीनता आपदाओं का परम या आश्रय स्थान होती है । अच्छी प्रकार से गुणों की लोभी संपदाएं विचार करने वाले का स्वयमेव वरण करती हैं, उसके पास चली आती हैं ।
 

बुधवार, 29 जुलाई 2020

विशेष कथा

=============≠======

लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

एकस्य ‌‌श्रेष्ठिनः ‌एका बृहती निर्माणी (कारखाना) आसीत् । तस्यां निर्माण्यां सहस्रशः श्रमिकाः कार्यं कुर्वन्ति स्म । प्रतिदिनं लक्षशः रूप्यकाणाम् आयः भवति स्म । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

एकदा यन्त्रे काचिद् विकृतिः आगता । कार्यम् अवरुद्धं जातम् । श्रमिकाः बहिः आगच्छन् । यन्त्रस्य विकृतिं समाधातुं कृता अनेके यत्नाः निष्फलाः जाताः । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री


यन्त्रस्य अवरोधेन महती हानिः भवेद् इति विचार्य श्रेष्ठी नगराद् एकं यन्त्रविशेज्ञम् आहूतवान् । स यन्त्रं ध्यानेन निरीक्ष्य अवदत् , अहं यन्त्रं सुचारु चालयिष्यामि । मम पारिश्रमिकं दशसहस्ररूप्यकाणि । यदि भवान् भवान् एतं राशिं दातुम् उद्यतः, अहं यन्त्रं समादधामि । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

कार्यविरोधजनितहानिशङ्कया स श्रेष्ठी तं समाधाने न्ययोजयत् । तेन लौहहस्तिकया यन्त्रस्य एकदेशे प्रहारः कृतः । यन्त्रं यथावत् कार्ये प्रवृत्तं जातम् । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

श्रेष्ठी तं विशेज्ञम् अवदत् --- "एतस्य लघुकार्यस्य कृते एतावद् बृहत् पारिश्रमिकं समुचितं नास्ति ।" लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

सोऽवदत् --- "यन्त्रे आघातं विधातुं कोऽपि शक्तः स्यात् , किन्तु आघातः कुत्र करणीयः एतद् अहं जानामि, न सर्वे । दीयतां मम पारिश्रमिकम् । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

श्रेष्ठी निरुत्तरः सन्, यथानिश्श्चितं राशिं तस्मै ददौ ।

बुधवार, 15 जुलाई 2020

कृषक-राजा कथा

======================

लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

कश्चित् नृपतिः प्रत्यहं प्रभाते अश्वम् आरुह्य नगरात् नेदीयसि एकस्मिन् उपवने भ्रमणार्थं याति स्म । एकस्मिन् दिवसे स पथि एकं दुर्बलदेहम् अशीतिवर्षदेशीयं वृद्धम् अवालोकत, यः स्वगृहाङ्गणे भूमिं खनित्वा किञ्चिद् वपति स्म । राजा अश्वाद् अवतीर्य तेन वृद्धेन सह एवम् आलपत् ---- लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

राजा --- अयि महाभाग ! किं वपति भवान् ?

वृद्धः --- आम्रं वपामि ।

राजा ---- आम्रं कदा फलिष्यति ?

वृद्धः --- पञ्चभिः वर्षैः ।


राजा ---- किं भवान् स्वजीवनकाले एतस्य फलानि खादिष्यति ? लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

वृद्धः ---- न जाने, तावत्कालपर्यन्तं जीविष्यामि न वा ।

राजा --- तर्हि किं वृथा परिश्रमेण ?

वृद्धः ---- महाशय ! सत्कार्याय कृतः परिश्रमः वृथा न भवति । मम पितामहः वृक्षान् आरोपयत्, तस्य फलानि मम पित्रा सेवितानि । मम पित्रा रोपितानां पादपानां फलानि मया भुक्तानि । अधुना अहं वपामि, मम पुत्राः पौत्राश्च फलानि सेविष्यन्ते । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

राजा --- महाशय ! अहं नमामि भवते । अहं भवदुत्तरेण सन्तुष्टः अस्मि । गृह्यतां स्वर्णमुद्रा (वृद्धाय स्वर्णमुद्रां ददाति ।) लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

वृद्धः --- महाशय ! भूरिशो धन्यवादाः । मया तु जीवनकाले एव फलं लब्धम् । स्वयं ब्रवीतु, भवान् किं परिश्रमः वृथा भवति ? लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

मया अपि अभाज्ञातं भवान् राजा इति । सादरं प्रणमामि । राजाऽपि तं वृद्धं अभिवाद्य हयं च आरुह्य ततः प्रस्थितः ।

शनिवार, 24 जून 2017

राज्ञो दिलीपस्य गोसेवा

==========================

राजा दिलीपः प्रसिद्धः शासकः तपस्वी आत्मज्ञाता एवं दयादानगुणशीलसम्पन्नः महान् पुरुषः आसीत् ।

सः सूर्यवंशे उत्पन्नः महाप्रतापी सम्राट् आसीत् । सः सर्वसुखसम्पन्नोSपि परम-दुःखितः आसीत् । सः अपुत्रः आसीत् ।

शास्त्रं कथयति---"अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।"

सः पुत्राभावात् सर्वदा दुःखमनुभवति स्म । सः पत्न्या सह पुत्रेच्छया गुरोः वशिष्ठस्य आश्रमं जगाम । तत्र स गुरुं प्रणम्य आत्मदुःखं निवेदयामास ।

गुरुः उवाच---"त्वं गोः सेवां कुरु । पुत्रो भविष्यति ।"

गुरोः आदेशं प्राप्य स गां सेवितुम् आरेभे ।

सः "नन्दिनी"--इति नाम्ना या गौः आसीत् तस्याः सेवाम् आरब्धवान् । प्रत्यहं सः गां चारयितुं वने वने निर्याति स्म ।

कालिदासः स्वरचिते सघुवंशमहाकाव्ये दिलीपस्य गोसेवां सम्यक् वर्णितवान् । यदा गौः (नन्दिनी) जलं पिबति सोSपि जलं पिबति । यदा गौः निषीदति, सोSपि निषीदति । यावत् सा व्रजति सोSपि तामनुव्रजति ।

गोसेवा-परीक्षणाय एकदा गौः लुप्ता जाता । सिंहः प्रकटीभूतः । सिंहः कथयति---"अहं शिवस्य अनुचरः अस्मि । त्वं मां प्रहर्त्तुं न शक्नोषि ।"

ततः राजा दिलीपः सिंहं प्रति उक्तवान्---"भो देव, मां भुङ्क्ष्व परं त्यज इमां गाम् ।"

सिंहेनोक्तम्---"एवमस्तु ।"

राजा दिलीपः सिंहस्याग्रे शरीरार्पणं कृतवान् । क्षणान्तरे सिंहस्थाने नन्दिनी गौः उपस्थिता ।

सा अकथयत्---"इयं तव परीक्षा । त्वं सफलीभूतः । इदानीं मम पयो दुग्ध्वा पिब । तव पुत्रो भविष्यति ।"

यथासमयं पुत्रः जातः । स एव राजा रघुः । रधुनाम्ना एव रघुकुलम् विख्यातम् ।

रघुवंशमहाकाव्ये एकस्मिन् स्थले कालिदासः उपमालङ्कार-चमत्कारं दर्शयति---

"पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनुः दिनक्षपामध्यगतेव सन्ध्या ।।"
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
संस्कृत नौकरियों के लिए---

www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य 
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa

बुधवार, 21 जून 2017

को धन्यः

!!!---: को धन्यः :---!!!
=====================

एकदा कश्चिद् नृपतिः स्वसचिवम् अवादीत्--"हे विद्वन् !

"इहामुत्र च को धन्यः को धन्योSत्रैव प्रेत्य नो ।
को धन्यः प्रेत्य नैवात्र नो धन्यश्चोभयत्र कः ।।"

इति मम चत्वारः प्रश्नाः सन्ति य़ मासाभ्यन्तरे भवान् एतेषामुत्तरं दातुमर्हति य़ इयं भवतः योग्यतायाः परीक्षा । अन्यथा मन्त्रिपदं न शक्ष्यति भवान् अलङ्कर्तुम् ।"

सः मन्त्री बुद्धिमान् आसीत् । अन्यस्मिन्नेव दिने सः चतुरः पुरुषान् राज्ञः पुरस्तात् उपस्थापयत् । तेषु प्रथमः धर्मात्मा श्रेष्ठी , द्वितीयः कृपणो धनाढ्यः , तृतीयः तपोधनः साधुः, चतुर्थश्च कश्चित् निषादो व्याधः आसीत् ।

राजा---(सभां प्रविश्य) मन्त्रिवर्य ! किमर्थमुपस्थापिता भवता एते जनाः ?

(जयतु देवः इत्युच्चार्य सर्वे प्रणमन्ति ।)

मन्त्री---अत्र भवतः चत्वारः प्रश्नाः सन्ति । तेषां समाधानार्थं मयैते चत्वारः पुरुषाः आनीताः ।

राजा---ननु कथमिव ।

मन्त्री---इहामुत्र को धन्यः ? इति भवतः प्रथमः प्रश्नः । तस्य समाधानार्थमेषः धर्मात्मा श्रेष्ठी मयानीतः । अस्य विपुलं सत्कर्मार्जितं धनमस्ति । अयम् औदार्येण पात्रेभ्यः ददातीति प्रेत्यापि दत्तस्य भूरि फलं लप्स्यते । सोSयमिहामुत्र च धन्यः ।

राजा--कस्तावदयं द्वितीयः ?

मन्त्री---महाराज ! द्वितीयोSयं कृपणः श्रेष्ठी, यो धन्योSत्रैव, प्रेत्य नो । धनाढ्यः सन्नपि अयं दानं न करोतीति अन्यस्मिन् लोके धन्यो न भविष्यति ।

राजा ----कस्तावत् तृतीयोSयम् ?

मन्त्री---राजन् ! तृतीयोSयं तपोधनः साधुः , एष इह धनानि परित्यज्य केवलं तपः एव आचरति । अतः प्रेत्य एवासौ धन्यः , नात्र । यतः तत्रैवायं तपःफलानि लप्स्यते , भविष्यति च धन्यः ।

राजा---ननु कोSयं चतुर्थः ?

मन्त्री---देव ! कश्चित् निषादो व्याधः । अयम् उभयत्रापि अधन्यः । दरिद्रोSयमत्र । प्राणिवधं कृत्वा कुटुम्बं पालयति । न कदापि किमपि पुण्यमाचरतीति । न प्रेत्यापि लप्स्यते पुण्यफलम् ।

इत्थं च जटिलानां प्रश्नानां सोदाहरणम् उत्तरं लब्ध्वा स राजा सभ्याश्चापि सर्वे परमां मुदामवाप्नुवन् । तुष्टो राजा मन्त्रिणं धनेन मानेन च पुरस्कृत्य सभां व्यसृजत् ।
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa