शुक्रवार, 14 अक्टूबर 2016

लोभाविष्टः चक्रधरः

!!!---: लोभाविष्टः चक्रधरः :---!!!
===============================

पञ्चतन्त्रं संस्कृतसाहित्यस्य अतीव लोकप्रियो ग्रन्थः । अस्य रूपान्तराणि प्राचीनकाले एव नाना वैदेशिकभाषासु कृतानि आसन् । अत एव संस्कृतभाषायामि विविधानि संस्करणानि जातानि । पञ्चभिर्भागैर्विभक्तमिदम् अन्वर्थतः पञ्चतन्त्रम् । तत्र मित्रभेदः, मित्रसम्प्राप्तिः, काकोलूकीयम्, लब्धप्रणाशः, अपरीक्षितकारकम् चेति पञ्च भागाः सन्ति । अन्तिमस्य भागस्यैव कथाविशेषः अत्र विशेषांके संपाद्य प्रस्तुतो वर्तते । अत्र लोभाधिक्यस्य दुष्परिणामः कथाव्याजेन प्रस्तुतः ।

कस्मिंश्चित् अधिष्ठाने चत्वारो ब्राह्मणपुत्राः मित्रतां गता वसन्ति स्म । ते दारिद्र्योपहता मन्त्रं चक्रुः---"अहो धिगियं दरिद्रता ।" उक्तञ्च---

"वरं वनं व्याघ्रगजादिसेवितं,
जनेन हीनं बहुकण्टकावृतम् ।
तृणानि शय्या परिधानवल्कलं
न बन्धुमध्ये धनहीनजीवितम् ।।"

"तद्गच्छामः कुत्रचिद् अर्थाय" इति सम्मन्त्र्य स्वदेशं परित्यज्य प्रस्थिताः । क्रमेण गच्छन्तः ते अवन्तीं प्राप्ताः । तत्र क्षिप्राजले कृतस्नाना महाकालं प्रणम्य यावन्निर्गच्छन्ति, तावद् भैरवानन्दो नाम योगी सम्मुखो बभूव । तेन ते पृष्टाः----"कुतो भवन्तः समायाताः ? किं प्रयोजनम् ?"



ततस्तैरभिहितम्---"वयं सिद्धियात्रिकाः । तत्र यास्यामो यत्र धनाप्तिर्मृत्युर्वा भविष्यतीति । एष निश्चयः । उक्तञ्च----

"अभिमतसिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण ।
दैवमिति यदपि कथयसि पुरुषगुणः सोSप्यदृष्टाख्यः ।।"

तत्कथ्यताम् अस्माकं कश्चिद्धनोपायः । वयम् अपि अतिसाहसिकाः । उक्तञ्च----

"महान्तः एव महताम् अर्थं साधयितुं क्षमाः ।
ऋते समुद्रादन्यः को बिभर्ति वडवानलम् ।।"

भैरवानन्दोSपि तेषां सिद्ध्यर्थं बहूपायं सिद्धवर्तिचतुष्टयं कृत्वा आर्पयत् । आह च----"गम्यतां हिमालयदिशि, तत्र सम्प्राप्तानां यत्र वर्तिः पतिष्यति तत्र निधानमसन्दिग्धं प्राप्स्यथ । तत्र स्थानं खनित्वा निधिं गृहीत्वा निवर्त्यताम् ।"

तथानुष्ठिते तेषां गच्छताम् एकतमस्य हस्तात् वर्तिः निपपात । अथासौ यावन्तं प्रदेशं खनति तावत् ताम्रमयी भूमिः । ततस्तेनाभिहितम्---"अहो ! गृह्यतां स्वेच्छया ताम्रम् ।"

अन्ये प्रोचुः----"भो मूढ ! किमनेन क्रियते ? यत् प्रभूतमपि दारिद्र्यं न नाशयति । तदुतिष्ठ, अग्रतो गच्छामः ।"

सोSब्रवीत्----"यान्तु भवन्तः नाहम् अग्रे यास्यामि ।" एवम् अभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः ।



ते त्रयोSपि प्रस्थिताः । अथ किञ्चिन्मात्रं गतस्य अग्रेसरस्य वर्तिः निपपात, सोSपि यावत् खनितुम् आरभते तावत् रूप्यमयी क्षितिः । ततः प्रहर्षितः आह---"गृह्यतां यथेच्छया रूप्यम् । नाग्रे गन्तव्यम् ।"

किन्तु अपरौ अकथयताम्---"आवाम् अग्रे यास्यावः । एवमुक्त्वा द्वावप्यग्रे प्रस्थितौ ।
सोSपि स्वशक्त्या रूप्यम् आदाय निवृत्तः ।

अथ तयोरपि गच्छतोरेकस्याग्रे वर्तिः पपात । सोSपि प्रहृष्टो यावत् खनति तावत् सुवर्णभूमिं दृष्ट्वा प्राह----"भोः गृह्यतां स्वेच्छया सुवर्णम् । सुवर्णाद् अन्यन्न किञ्चिद् उत्तमं भविष्यति ।"

अन्यस्तु प्राह----"मूढ ! न किञ्चिद् वेत्सि । प्राक्ताम्रम् ततो रूप्यम्, ततः सुवर्णम् । तन्नूनम् अतः परं रत्नानि भविष्यन्ति । तदुतिष्ठ , अग्रे गच्छावः । किन्तु तृतीयः यथेच्छया स्वर्णं गृहीत्वा निवृत्तः ।"



अनन्तरं सोSपि गच्छन् एकाकी ग्रीष्म-सन्तप्त-तनुः पिपासितकुलितः मार्गच्युतः इतश्चेतश्च बभ्राम । अथ भ्राम्यन् स्थलोपरि पुरुषमेकं रुधिर-प्लावित-गात्रं भ्रमच्चक्र-मस्तकम् अपश्यत् । ततो द्रुततरं गत्वा तमवोचत्---"भोः, को भवान् ? किमेवं चक्रेण भ्रमता शिरसि तिष्ठसि ? तत् कथ्य मे यदि कुत्रचिज्जलमस्ति ।"

एवं तस्य प्रवदतस्तच्चक्रं तत्क्षणात् तस्य शिरसो ब्राह्मण-मस्तके आगतम् । स आह---"किमेतत् ?"

स आह---"ममाप्येवम् एतच्छिरसि आगतम् ।"

स आह---"तत् कथय, कदैतद् उत्तरिष्यति ? महती मे वेदना वर्तते ।"

स आह---"यदा त्वमिव कश्चिद् धृतसिद्धवर्तिरेवम् आगत्य त्वाम् आलापयिष्यति तदा तस्य मस्तके गमिष्यति ।"



इत्युक्त्वा स गतः । अत उच्यते---

"अतिलोभो न कर्त्तव्यो लोभं नैव परित्यजेत ।
अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके ।।"
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें