बुधवार, 29 जुलाई 2020

विशेष कथा

=============≠======

लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

एकस्य ‌‌श्रेष्ठिनः ‌एका बृहती निर्माणी (कारखाना) आसीत् । तस्यां निर्माण्यां सहस्रशः श्रमिकाः कार्यं कुर्वन्ति स्म । प्रतिदिनं लक्षशः रूप्यकाणाम् आयः भवति स्म । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

एकदा यन्त्रे काचिद् विकृतिः आगता । कार्यम् अवरुद्धं जातम् । श्रमिकाः बहिः आगच्छन् । यन्त्रस्य विकृतिं समाधातुं कृता अनेके यत्नाः निष्फलाः जाताः । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री


यन्त्रस्य अवरोधेन महती हानिः भवेद् इति विचार्य श्रेष्ठी नगराद् एकं यन्त्रविशेज्ञम् आहूतवान् । स यन्त्रं ध्यानेन निरीक्ष्य अवदत् , अहं यन्त्रं सुचारु चालयिष्यामि । मम पारिश्रमिकं दशसहस्ररूप्यकाणि । यदि भवान् भवान् एतं राशिं दातुम् उद्यतः, अहं यन्त्रं समादधामि । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

कार्यविरोधजनितहानिशङ्कया स श्रेष्ठी तं समाधाने न्ययोजयत् । तेन लौहहस्तिकया यन्त्रस्य एकदेशे प्रहारः कृतः । यन्त्रं यथावत् कार्ये प्रवृत्तं जातम् । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

श्रेष्ठी तं विशेज्ञम् अवदत् --- "एतस्य लघुकार्यस्य कृते एतावद् बृहत् पारिश्रमिकं समुचितं नास्ति ।" लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

सोऽवदत् --- "यन्त्रे आघातं विधातुं कोऽपि शक्तः स्यात् , किन्तु आघातः कुत्र करणीयः एतद् अहं जानामि, न सर्वे । दीयतां मम पारिश्रमिकम् । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

श्रेष्ठी निरुत्तरः सन्, यथानिश्श्चितं राशिं तस्मै ददौ ।

बुधवार, 15 जुलाई 2020

कृषक-राजा कथा

======================

लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

कश्चित् नृपतिः प्रत्यहं प्रभाते अश्वम् आरुह्य नगरात् नेदीयसि एकस्मिन् उपवने भ्रमणार्थं याति स्म । एकस्मिन् दिवसे स पथि एकं दुर्बलदेहम् अशीतिवर्षदेशीयं वृद्धम् अवालोकत, यः स्वगृहाङ्गणे भूमिं खनित्वा किञ्चिद् वपति स्म । राजा अश्वाद् अवतीर्य तेन वृद्धेन सह एवम् आलपत् ---- लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

राजा --- अयि महाभाग ! किं वपति भवान् ?

वृद्धः --- आम्रं वपामि ।

राजा ---- आम्रं कदा फलिष्यति ?

वृद्धः --- पञ्चभिः वर्षैः ।


राजा ---- किं भवान् स्वजीवनकाले एतस्य फलानि खादिष्यति ? लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

वृद्धः ---- न जाने, तावत्कालपर्यन्तं जीविष्यामि न वा ।

राजा --- तर्हि किं वृथा परिश्रमेण ?

वृद्धः ---- महाशय ! सत्कार्याय कृतः परिश्रमः वृथा न भवति । मम पितामहः वृक्षान् आरोपयत्, तस्य फलानि मम पित्रा सेवितानि । मम पित्रा रोपितानां पादपानां फलानि मया भुक्तानि । अधुना अहं वपामि, मम पुत्राः पौत्राश्च फलानि सेविष्यन्ते । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

राजा --- महाशय ! अहं नमामि भवते । अहं भवदुत्तरेण सन्तुष्टः अस्मि । गृह्यतां स्वर्णमुद्रा (वृद्धाय स्वर्णमुद्रां ददाति ।) लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

वृद्धः --- महाशय ! भूरिशो धन्यवादाः । मया तु जीवनकाले एव फलं लब्धम् । स्वयं ब्रवीतु, भवान् किं परिश्रमः वृथा भवति ? लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

मया अपि अभाज्ञातं भवान् राजा इति । सादरं प्रणमामि । राजाऽपि तं वृद्धं अभिवाद्य हयं च आरुह्य ततः प्रस्थितः ।