बुधवार, 15 जुलाई 2020

कृषक-राजा कथा

======================

लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

कश्चित् नृपतिः प्रत्यहं प्रभाते अश्वम् आरुह्य नगरात् नेदीयसि एकस्मिन् उपवने भ्रमणार्थं याति स्म । एकस्मिन् दिवसे स पथि एकं दुर्बलदेहम् अशीतिवर्षदेशीयं वृद्धम् अवालोकत, यः स्वगृहाङ्गणे भूमिं खनित्वा किञ्चिद् वपति स्म । राजा अश्वाद् अवतीर्य तेन वृद्धेन सह एवम् आलपत् ---- लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

राजा --- अयि महाभाग ! किं वपति भवान् ?

वृद्धः --- आम्रं वपामि ।

राजा ---- आम्रं कदा फलिष्यति ?

वृद्धः --- पञ्चभिः वर्षैः ।


राजा ---- किं भवान् स्वजीवनकाले एतस्य फलानि खादिष्यति ? लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

वृद्धः ---- न जाने, तावत्कालपर्यन्तं जीविष्यामि न वा ।

राजा --- तर्हि किं वृथा परिश्रमेण ?

वृद्धः ---- महाशय ! सत्कार्याय कृतः परिश्रमः वृथा न भवति । मम पितामहः वृक्षान् आरोपयत्, तस्य फलानि मम पित्रा सेवितानि । मम पित्रा रोपितानां पादपानां फलानि मया भुक्तानि । अधुना अहं वपामि, मम पुत्राः पौत्राश्च फलानि सेविष्यन्ते । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

राजा --- महाशय ! अहं नमामि भवते । अहं भवदुत्तरेण सन्तुष्टः अस्मि । गृह्यतां स्वर्णमुद्रा (वृद्धाय स्वर्णमुद्रां ददाति ।) लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

वृद्धः --- महाशय ! भूरिशो धन्यवादाः । मया तु जीवनकाले एव फलं लब्धम् । स्वयं ब्रवीतु, भवान् किं परिश्रमः वृथा भवति ? लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री

मया अपि अभाज्ञातं भवान् राजा इति । सादरं प्रणमामि । राजाऽपि तं वृद्धं अभिवाद्य हयं च आरुह्य ततः प्रस्थितः ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें