!!!---: को धन्यः :---!!!
=====================
एकदा कश्चिद् नृपतिः स्वसचिवम् अवादीत्--"हे विद्वन् !
"इहामुत्र च को धन्यः को धन्योSत्रैव प्रेत्य नो ।
को धन्यः प्रेत्य नैवात्र नो धन्यश्चोभयत्र कः ।।"
इति मम चत्वारः प्रश्नाः सन्ति य़ मासाभ्यन्तरे भवान् एतेषामुत्तरं दातुमर्हति य़ इयं भवतः योग्यतायाः परीक्षा । अन्यथा मन्त्रिपदं न शक्ष्यति भवान् अलङ्कर्तुम् ।"
सः मन्त्री बुद्धिमान् आसीत् । अन्यस्मिन्नेव दिने सः चतुरः पुरुषान् राज्ञः पुरस्तात् उपस्थापयत् । तेषु प्रथमः धर्मात्मा श्रेष्ठी , द्वितीयः कृपणो धनाढ्यः , तृतीयः तपोधनः साधुः, चतुर्थश्च कश्चित् निषादो व्याधः आसीत् ।
राजा---(सभां प्रविश्य) मन्त्रिवर्य ! किमर्थमुपस्थापिता भवता एते जनाः ?
(जयतु देवः इत्युच्चार्य सर्वे प्रणमन्ति ।)
मन्त्री---अत्र भवतः चत्वारः प्रश्नाः सन्ति । तेषां समाधानार्थं मयैते चत्वारः पुरुषाः आनीताः ।
राजा---ननु कथमिव ।
मन्त्री---इहामुत्र को धन्यः ? इति भवतः प्रथमः प्रश्नः । तस्य समाधानार्थमेषः धर्मात्मा श्रेष्ठी मयानीतः । अस्य विपुलं सत्कर्मार्जितं धनमस्ति । अयम् औदार्येण पात्रेभ्यः ददातीति प्रेत्यापि दत्तस्य भूरि फलं लप्स्यते । सोSयमिहामुत्र च धन्यः ।
राजा--कस्तावदयं द्वितीयः ?
मन्त्री---महाराज ! द्वितीयोSयं कृपणः श्रेष्ठी, यो धन्योSत्रैव, प्रेत्य नो । धनाढ्यः सन्नपि अयं दानं न करोतीति अन्यस्मिन् लोके धन्यो न भविष्यति ।
राजा ----कस्तावत् तृतीयोSयम् ?
मन्त्री---राजन् ! तृतीयोSयं तपोधनः साधुः , एष इह धनानि परित्यज्य केवलं तपः एव आचरति । अतः प्रेत्य एवासौ धन्यः , नात्र । यतः तत्रैवायं तपःफलानि लप्स्यते , भविष्यति च धन्यः ।
राजा---ननु कोSयं चतुर्थः ?
मन्त्री---देव ! कश्चित् निषादो व्याधः । अयम् उभयत्रापि अधन्यः ।
दरिद्रोSयमत्र । प्राणिवधं कृत्वा कुटुम्बं पालयति । न कदापि किमपि पुण्यमाचरतीति । न प्रेत्यापि लप्स्यते पुण्यफलम् ।
इत्थं च जटिलानां प्रश्नानां सोदाहरणम् उत्तरं लब्ध्वा स राजा सभ्याश्चापि सर्वे परमां मुदामवाप्नुवन् । तुष्टो राजा मन्त्रिणं धनेन मानेन च पुरस्कृत्य सभां व्यसृजत् ।
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें