मंगलवार, 20 जून 2017

सञ्चितार्थोSपि नश्यति

सञ्चितार्थोSपि नश्यति
==============

आसीत् धारानगर्यां भोजो नाम राजा । जन्मनैव बुद्धिमान् सुयोग्येभ्यः गुरुभ्यः अधीत्य सः शीघ्रं विद्वान् अभवत् । सिंहासनम् अधिष्ठितः सः सुप्रबन्धेन स्वराज्यं समृद्धम् अकरोत् । तस्य राज्ये जनाः सदाचारिणः आसन् । राज्ञः प्रेरणया गुणानुरागिभिः धनवद्भिः अनेके विद्यालयाः पुस्तकालयाश्च स्थापिताः । कलाविद्भिः शिल्पिभिः भव्यानि भवनानि, रम्याणि मन्दिराणि  च निर्मिताणि ।

तस्य राज्ये विद्यार्थिनः विद्याभ्यासं विद्वांसः अध्यापनं सङ्गीतज्ञाः सङ्गीतैः जनानां मनोरञ्जनं कुर्वन्ति स्म । स राजा  स्थाने स्थाने यात्रिभ्यः कूपान्, रोगिभ्यः चिकित्सलयान् श्रान्तेभ्यः पथिकेभ्यः धर्मशाला निर्मापितवान् । समाजे संन्यासिनः धर्मस्य त्यागस्य च महिमानं प्रसारयन्ति स्म । तस्य शासने दुराचारिभ्यः कस्यापि किमपि भयं नासीत् । तत्र विद्यावतां मानः, भगवतः ध्यानं च जीवनस्य लक्ष्यमभवत् । तेषाम् आत्मनि निष्ठा परमात्मनि विश्वासः च दृढौ आस्ताम् ।

धनिनः विपत्तौ निर्धनानां साहाय्यं कुर्वन्ति स्म । सकलाSपि राज्यव्यवस्था प्रजायाः श्रेयसे अभवत् । भोजः एतादृशः गुणग्राही आसीत् यत् यः कोSपि विद्वान् राजसदसि स्वकीयां कवितां नवीनम् आविष्कारं वा प्रस्तौति स्म तस्मै भूयांसं पुरस्कारम् अयच्छत् ।

एकदा भोजस्य दानशीलतां दृष्ट्वा तस्य मन्त्री अचिन्तयत्---"एवं नक्तं दिवं धनस्य व्ययेन तु कोशः क्षयं गमिष्यति । साक्षात् निवेदनेन कदाचित् राजा मह्यं क्रुध्येत् इति । अतः श्लोकपादं लिखित्वा मन्त्री पत्रमेकं राज्ञः पर्यङ्के अस्थापयत्---

"आपदर्थे धनं रक्षेत्"
राजा पर्यङ्के स्थितं तत्पत्रं पठित्वा तस्याग्रे अलिखत्---
"श्रीमतामापादः कुतः"

मन्त्री दिवा तदुत्तरं पठित्वा पुनरलिखत्---
"कदाचित् चलिता लक्ष्मी"

अग्रिमायां निशायां राजा तत् पठित्वा श्लोकमेवम् अपूरयत्---
"सञ्चितार्थोSपि नश्यति"

एतत् पठित्वा भोजस्य औदार्येण प्रभावितः मन्त्री राज्ये तदनुकूलामेव व्यवस्थामकरोत् ।

"आपदर्थे धनं रक्षेत् श्रीमतामापादः कुतः ।
कदाचित् चलिता लक्ष्मी सञ्चितार्थोSपि नश्यति ।।"

===============================  
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
संस्कृत नौकरियों के लिए---

www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें