गुरुवार, 20 अगस्त 2020

नष्टा मन्दविसर्पिणी

======================


कश्चन महाराजः आसीत् । तस्य शय्यायां मन्दविसर्पिणी नाम यूका (जूआं) वसति स्म । सा यूका महाराजस्य रक्तम् आस्वादयन्ती सुखेन जीवति स्म । लेखकः--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री 

एकदा अग्निमुखः नाम कश्चित् मत्कुणः तां शय्यायामागतवान् ।तं दृष्ट्वा मन्दविसर्पिणी उक्तवती ---- "भो मत्कुण ! भवान् किमर्थमत्र आगतवान् ? भवता अत्र न स्थातव्यम् । शीघ्रमेव इतः गच्छतु" इति । लेखकः--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री 


ततः अग्निमुखः उक्तवान् --- "आर्ये ! अहं बहुजनानां रक्तम् अस्वादितवान् । परन्तु कुत्रापि मधुरं रक्तं न लब्धम् । भवती अनुमतिं ददाति चेद् एतस्य महाराजस्य मधुरं रक्तं पीत्वा यम जीवनं सार्थकं करोमीति" । लेखकः--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री 

मन्दविसर्पिणी उक्तवती --- "भोः अग्निमुख ! अहम् अनुमतिं ददामि । परन्तु महाराजः यदा निद्रावशः भवति, तथा अहं प्रथमं तस्य रक्तं पिबामि । तदनन्तरम् एव भवता रक्तं पातव्यम् । त्वरा न करणीयम्" इति । लेखकः--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री 

"अस्तु, अहं तथैव करोमि ।" इति अग्निमुखः अङ्गीकृतवान् ।

किञ्चित् कालानन्तरं महाराजः तत्रागतवान्, शय्यायां सुप्तवान् च । महाराजस्य इतोऽपि निद्रा नागता आसीत् । तदानीमेव जिह्वाचपलं निरोद्धम् असमर्थः अग्निमुखः तं दष्टवान् महाराजः झटिति शय्यातः उत्थितवान् । सेवकान् आज्ञापितवान् --- "भोः सेवकाः ! शय्यायां किमस्तीति भवन्तः शीघ्रमेव पश्यन्तु" इति ।

सर्वेऽपि सेवकाः सर्वाणि शय्यावस्त्राणि परिशीलितवन्तः । अत्रान्तरे मत्कुणः रन्ध्रं प्रविष्टवान् । सेवकाः वस्त्रमध्ये स्थितां मन्दविसर्पिणी दृष्टवन्तः, मारितवन्तश्च ।

एवं दुष्टाय मत्कुणाय आश्रयस्य दानेन मन्दविसर्पिणी स्वयं नष्टा । अतः प्राज्ञैः उच्यते ---- "दुष्टेभ्यः आश्रयः न दातव्यः" इति ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें