शनिवार, 29 अगस्त 2020

मन्दः मन्थरकः

======================

लेखकः--- योगाचार्य डॉ प्रवीण कुमार शास्त्री

कस्मिंश्चित् ग्रामे मन्थरकः नाम तन्तुवायः आसीत् । स प्रतिदिनं वस्त्रं वयति स्म । कदाचित् तस्य वयनयन्त्रस्य काष्ठनिर्मितं दण्डः भग्नः । नूतनदण्डम् आनेतुं मन्थरकः परशुं गृहीत्वा अरण्यं गतवान् । तत्र स एकम् उत्तमं वृक्षं दृष्टवान् । तन कर्तयितुं सः परशुप्रयोगं कृतवान् । लेखकः--- योगाचार्य डॉ प्रवीण कुमार शास्त्री

तस्मिन् वृक्षे काचित् देवता वसति स्म । सा मन्थरकम् उक्तवती , "भोः ! एषः वृक्षः मम आश्रयस्थानम् अस्ति । अतः भवान् एतं मा कर्तयतु । अहं भवते एकं वरं ददामि । भवान् यद् इच्छति, तद् याचतु" इति । योगाचार्य डॉ प्रवीण कुमार शास्त्री

मन्थरकः उक्तवान्, "अहं विचारयित्वा वदिष्यामि" । अनन्तरं सः मित्रस्य नापितस्य गृहं गतवान् । तं पृष्टवान्, "भोः मित्र ! देवता वरं दातुं सज्जा अस्ति । कं वरं याचानि ?"

नापितः उक्तवान्, "भवान् राज्यं याचतु । तेन महाराजत्वं प्राप्यते । अहं भवतः मन्त्री भविष्यामि ।"

"अस्तु" इति उक्त्वा मन्थरकः गृहमागतवान् । पत्नीं पृष्टवान्, "प्रिये ! देवता वरं ददाति । नापितः वदति--- राज्यं याचतु । किं याचानि ?" लेखकः--- योगाचार्य डॉ प्रवीण कुमार शास्त्री


सा उक्तवती, "नापितः मूर्खः । सः किमपि न जानाति । राज्यस्य निर्वहणे बहु कष्टं भवति । अतः राज्यं मास्तु । इदानीं भवान् प्रतिदिनम् एकं वस्त्रं वयति किल । तेन अस्माकम् आजीविका कष्टेन प्रचलति । भवान् देवताम् अन्यत् बाहुद्वयं, द्वितीयं शिरः च याचतु । तदा भवान् प्रतिदिनं वस्त्रद्वयं कर्तुं शक्नोति ।  एकस्य वस्त्रस्य धनं दैनन्दिन-उपयोगार्थं भवति । द्वितीयस्य धनं सङ्ग्रहीतुं शक्यते । तदा वयं सुखेन जीवनं यापयामः ।"

मन्थरकः एतत् अङ्गीकृतवान् । स वनं गत्वा देवतां याचितवान्, "भगवति ! मह्यम् अन्यत् बाहुद्वयं, द्वितीयं शिरः च यच्छतु ।"

देवता उक्तवती, "तथास्तु" ।  लेखकः--- योगाचार्य डॉ प्रवीण कुमार शास्त्री

तत्क्षणमेव मन्थरकस्य अन्यत् बाहुद्वयं, द्वितीयं शिरश्च उत्पन्नम् । स सन्तोषेण ग्राममागतवान् । परन्तु जनाः विचित्राकारं तं दृष्ट्वा राक्षसं च मत्वा तं दण्डेन ताडयित्वा मारितवन्तः ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें