गुरुवार, 29 सितंबर 2016

भोजस्य शल्यचिकित्सा

!!!---: भोजस्य शल्यचिकित्सा :---!!! ==============================

इयं कथा श्रीबल्लालकविद्वारा विरचितेन "भोजप्रबन्थ" नामकग्रन्थाद् उद्धृता अस्ति । अस्यां कथायां वर्णितमस्ति यत् तस्य भोजराजस्यापि काले भारतवर्षे महती शल्यचिकित्सा आसीत् । तस्य चिकित्सा अश्विनकुमारौ अकुरुताम् ।

अथ कदाचिद् राजा भोजः नागराद् बहिः एकस्मिन् तडागे कपालशोधनम् अकरोत् । तन्मूलेन कश्चन शफरः (लघुः मत्स्यः) तस्य कपालं प्रविष्टः । तदारभ्य राज्ञः कपाले वेदना जाता । सा तत्रत्यैः भिषग्वरैः सम्यक् विचिकित्सिता अपि न शान्ता । संवत्सरेSपि काले न केनाSपि निवारितः तस्य रोगः ।

ततः दुःखितमनाः राजा मन्त्रिणं बुद्धिसागरं कथितवान्---"बुद्धिसागर ! इतःपरम् अस्मद्राज्ये न कस्मैचिदपि भिषग्वराय वसतिः देया । यतोहि वैद्यशास्त्रं प्रति मम आस्था समाप्ता । साम्प्रतं मम अन्यसमयः समागतः । तच्छ्रुत्वा सर्वेSपि पौरजनाः अश्रुपूर्णनेत्राः अभवन् ।

अथ कदाचिद् देवसभायाम् इन्द्रः मुनिवरं नारदम् अपृच्छत्---"इदानीं भूलोके किं किं प्रचलति ?"

नारद आह---"सुरनाथ ! न किमपि आश्चर्यम् । किन्तु धारानगर्याः राजा भोजराजः नितराम् अस्वस्थः वर्तते । तस्य रोगः केनापि वैद्येन न निवारितः । तदनेन भोजराजेन सर्वे वैद्यवराः अपि स्वनगर्याः निष्कासिताः । एतदाकर्ण्य इन्द्रः समीपस्थौ अश्विनीकुमारौ इदमाह---

"भो ! स्वर्वैद्यौ ! किं धन्वन्तरीयं शास्त्रम् असत्यम् इति ?"

तौ उक्तवन्तौ---"नेदं शास्त्रम् असत्यं भवितुम् अर्हति । परं येन रोगेण पीडितः अस्ति तस्य मूलम् एव वैद्यैः न ज्ञातम् ।"

इन्द्र उवाच---"यदि शास्त्रमिदं नासत्यं तर्हि युवाभ्यां गन्तव्यं येन स राजा सम्यक् चिकित्सितो भवेत् ।"

अश्विनीकुमारौ विप्रवेशं धृत्वा धारानगरं प्राप्य द्वारपालं उक्तवन्तौ---"भो द्वारपाल ! भोजराजाय निवेदय---"राजाSनृतमिति अङ्गीकृतं वैद्यशास्त्रम् इति श्रुत्वा तत् प्रतिष्ठापनाय तद्रोगनिवारणाय चावां काशीदेशात् आगतौ ।"

द्वारपाल उवाच---"राजशासनेन कोSपि वैद्यः प्रवेशं नार्हति । परं तस्मिन्नेव क्षणे कार्यवशात् बहिर्निर्गतः बुद्धिसागरः तयोः वार्तां श्रुत्वा तौ राज्ञः समीपं नीतवान् । राजा तयोः अलौकिकीं मुखश्रियं दृष्ट्वा तौ सम्मानितवान् ।

तौ अवदताम्---"राजन् ! कुत्रचित् त्वया एकान्ते भवितव्यम् ।" राजा तथा कृतम् । तौ राजानं मोहयित्वा मस्तके विद्यमानं शफरं शल्यचिकित्सया निष्कास्य कस्मिंश्चिद् भाजने निक्षिप्तवन्तौ । ततः सन्धानकारण्या कपालं यथावद् कृत्वा सञजीविन्या च तं संज्ञां प्रापयित्वा राजानं तत् शफरम् अदर्शयताम् । विस्मितः राजा अपृच्छत्---"किमेतत् ??"

"राजन् ! त्वया अपरिचिते सरोवरे कपालशोधनं कृतम् ततः एव सम्प्राप्तमिदम् ।"

राजा पुनः अपृच्छत्---"किमस्माकं पथ्यम् ?"

तौ अवदताम्---

"अशीतेनाम्भसा स्नानं कवोष्णक्षीरसेवनम् ।
एतद् वो मानुषाः पथ्यं स्निग्धमुष्णं च भोजनम् ।।"

एतद् उक्त्वा अश्विनीकुमारौ अन्तर्हितौ अभवताम् । राजापि चिकित्साशास्त्रं प्रति जातविश्वासः सर्वान् वैद्यान् पुनः आमन्त्रयामास । अत एव उच्यते---

"अन्विष्यते हि रत्नानि सागरस्थानि नाविकैः ।


अल्पज्ञानां मते किन्तु शब्दो रत्नाकरो वृथा ।।"
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

सोमवार, 26 सितंबर 2016

समीचीनः निर्णयः

!!!---: समीचीनः निर्णयः :---!!!
=======================

नृपतिः श्रेणिकः तत्पत्नी चेतना च भगवतः महावीरस्य दर्शनं कृत्वा राजभवनं प्रति प्रस्थितौ । मार्गे दारुणे शीते तपस्यन्तम् एकं मुनिं अवलोक्य तौ चकितौ बभूवतुः ।

राजभवनम् उपेत्य श्रान्ता चेतना निद्रावशं गता । रात्रौ तस्याः एकः हस्तः शय्यातः नीचैः आलम्बत । प्रातः प्रबुद्धा सा तस्मिन् हस्ते शैत्यकारणात् शोथम् अपश्यत् । परिचारिकाः अग्नितापेन उष्णताम् उत्पाद्य हस्तस्य उपचारम् अकुर्वन् ।

उपचारवेलायां सहया राज्ञ्याः चेतनायाः मनसि तस्य मुनेः विचारः आगतः यः भयङ्करे शीते तपः तपति स्म । तस्याः मुखात् एतद् वचनं निर्गतं तस्य वराकस्य का दशा भविष्यतीति ।

श्रेणिकः एतद् वचनं श्रुत्वा अचिन्तयत् यत् राज्ञी कस्मिंश्चित् पुरुषे आसक्तास्ति । स मन्त्रिणम् आहूय अन्तःपुरं दग्धुम् आदिदेश ।

तत्पश्चात् स दुःखितेन मनसा त्रिकालज्ञं भगवन्तं महावीरम् उपगम्य सर्वं निवेदितवान् आत्मनः व्यथां च प्राकटयत् । भगवान् महावीरः क्षणं ध्यात्वा नृपतिम् उक्तवान् यत् राज्ञी चेतना सर्वथा निर्दोषा पवित्रा चास्ति ।

एतत् परिज्ञाय आत्मकृत्यं शोचन् नृपतिः तत्क्षणं मन्त्रिणम् आहूय अपृच्छत्---"किं दग्धम् अन्तःपुरम् ?"

अमात्येनोक्तम्---"भवतः आदेशः तु पालनीयः एव ।"



इत्याकर्ण्य शोकोद्वेगेन राज्ञः दशा शोचनीया जाता । तदा तं सान्त्वयन् मन्त्री उवाच---"राजन् ! अलं शोकेन । अन्तःपुरं सुरक्षितम् । मया केवलं हस्तिशाला अग्निदाहेन दग्धा । अहं वेद्मि यत् क्रोधदशायां कृतः निर्णयः हानये भवति । नपः प्रमोदम् अवाप ।।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

गुरुवार, 22 सितंबर 2016

का तावद् वस्तुतो माता

!!!---: का तावद् वस्तुतो माता :---!!!
==============================
अद्य न्यायालयः तथा जनैः सङ्कुलः यथा नेतः पूर्वं कदापि दृष्टः । द्वाभ्यां वक्कीलाभ्यां सह द्वे नार्यौ न्यायाधीशस्य निर्णयं श्रोतुम् उत्कण्ठिते । अग्रिमायां पङ्क्तौ स्थिते आस्ताम् । तयोः एका चित्रा द्वितीया च विचित्रा ।

एकादशवादनसमये न्यायाधीशः स्वलिखितं निर्णयं श्रावयितुम् उत्थितः । स उच्चैः उक्तवान्---"साक्षिणां वचनानि मया सम्यग् विचारितानि । इमौ विधिशास्त्रविशारदौ वाक्कीलौ अपि स्वपक्षसमर्थनाय यान् तर्कान् प्रस्तुतवन्तौ ते अपि मया विचिन्तिताः । अनया चित्रया उपस्थापितानि प्रमाणानि यथा सत्यानि प्रतीतानि भवन्ति तथैव विचित्रया न्यायालये न्यस्तानि सर्वाणि प्रमाणपत्राण्यपि अकाट्यानि ज्ञातानि भवन्ति । अयं च द्विवर्षकल्पो बालः मणिदीपः द्वयोरपि मात्रोः अङ्काय स्पृहयति । अतः असौ कस्याः पुत्र इति निर्णेतुम् असमर्थेन मया निर्धारितम्--अस्य बालस्य समानं भागद्वयं विधातव्यम्, एको भागः मणिः चित्रायै देयः द्वितीयश्च भागः विचित्रायै अर्पितव्यः । इति ।"

किञ्चित् विरम्य स भूयो भाषितवान्---"गतमासे सन्दिग्धायां स्थितौ उपस्थितायाम् एकं भवनं मया द्विधा विभज्य द्वाभ्यां सहोदराभ्यां दत्तम् । तावपि आत्मानम् एकस्य सम्पूर्णस्य भवनस्याधिकारिणं घोषयन्तौ तथैव विवदमानौ न्यायालयमागतौ यथा इमे चित्रा विचित्रा च मणिदीपम्, "अयं मम पुत्रः," , अयं मम पुत्रः" इति ख्यापयन्त्यौ मिथः विविदमाने न्यायालयम् आगते" इति ।

निर्णयं श्रुत्वा विचित्रा प्रसन्ना जाता, किन्तु चित्रा मूर्च्छिता भूमौ छिन्नमूला तलेव अपतत् । बहुभिः उपचारैः लब्धचेतना सा करौ मुकुलीकृत्य रुदती प्रार्थयत न्यायाधीशम्---"श्रीमन् । अहं मणिदीपस्य केशच्छेदमपि सोढुं समर्था नास्मि । याचे भवन्तम् अस्य जीवनम् । दीयताम् अयं विचित्रायै । तस्याः पुत्र एव भूत्वा शतं जीवतु अयम्", इति

क्षणं तूष्णीकः न्यायाधीशः, पुनर्घोषितवान्----"मया साम्प्रतं सत्यम् उपलब्धम् । चित्रा एवास्य वस्तुतो माता । सा यां स्वाभाविकीं निःस्वार्थां ममतां दर्शितवती तया निश्चितः भवति----मणिदीपः अस्याः एव पुत्रः । मूर्च्छा एव तस्याः सत्यतायाः साक्षिणी । अथ तथाविधं निर्णयं श्रुतवत्याः विचित्रायाः मुखे आगतः प्रसादस्तां मायाविनीं साधयति ।"

न्यायाधीशस्य बुद्धिर्वैभवं भूरि भूरि प्रशंसन्तः जनाः प्रमुदिताः जाताः । चित्रा च हृतप्रायं जीवनदीपं मणिदीपं पुनः प्राप्य तथैव प्रहृष्टा यथा कोSपि अन्धः सहसा नेत्रे लब्ध्वा हृष्यति ।

शब्दार्थः---
सङ्कुलः---भरा हुआ ।
नेतः पूर्वम्--इससे पूर्व नहीं,
वाक्कीलः---वकील
भूयः---फिर, पुनः,
ख्यापयन्त्यौ----बतलाती हुई,
मुकुलीकृत्य---जोडकर,


तूष्णीकः---चुप ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/