शुक्रवार, 22 जुलाई 2016

न गंगादत्तः पुनरेति कूपम्

!!!---: न गंगादत्तः पुनरेति कूपम् :---!!!
============================

गंगायाम् उभयतः विविधैः वृक्षैः सुशोभिताः ग्रामाः आसन् । तत्र एकस्मिन् ग्रामे एकः जीर्णः कूपः आसीत् । तस्मिन् कूपे मण्डूकानाम् अधिपतिः गंगादत्तः परिजनैः सह निवसति स्म ।

सः गंगादत्तः विनैव परिश्रमं प्रभुत्वं प्राप्नोत् । अतः गर्वितः अभवत् । तस्य दुर्व्यवहारेण केचित् प्रमुखाः भेकाः रुष्टाः जाताः । ते गंगादत्तम् अधिकारेण हीनं कृत्वा कूपात् बहिः कर्त्तुम् उद्यताः अभवन् ।

तद् ज्ञात्वा गंगादत्तः विषादम् अनुभवति स्म । "शत्रूणां नाशः कथं भवेत् ।" इति एकान्ते चाटुकारैः सह मन्त्रणां अकरोत् । एकः नष्टबुद्धिः नाम मण्डूकः नत्वा अकथयत्---

"नीतिं विना किमपि न सिद्ध्यति । शत्रुः नाशयितव्यः इति नीतिः । एषां शत्रूणां नाशाय सर्पः सहायकः भविष्यति ।एवं युद्धेन विनैव शत्रुनाशः भविष्यति ।"

ततः मूढः गंगादत्तः कूपात् बहिः आगत्य सर्पस्य समीपं गतः । सः सादरं सर्पम् अवदत्---

"नागराजाय नमः ।"

विषधरः अवदत्--- "स्वागतं सखे । किं ते प्रियं करवाणि । किमर्थम् आगतः असि ?"

गंगादत्तः अवदत्---"त्वया सह मैत्रीं कर्त्तुम् तव द्वारम् उपागतः ।"

सर्पराजः तम् अपृच्छत्--- "भक्ष्यभक्षकयोः मध्ये कीदृशी मैत्री ?"

गंगादत्तः अकथयत्--- "सत्यम्, परम् अधुना अपमानितः अहं तव साहाय्यम् अभिलषामि ।"

"कस्मात् ते परिभव ?"

"स्वजनेभ्यः"

"क्व ते निवासः , वाप्यां, कूपे तडागे वा ?"

"कूपे । आगच्छ मया सह, कूपं प्रविश्य मम शत्रून् नाशय ।"

ततः सर्पराजः तस्य वचनं स्वीकृत्य अकथयत्---"अलं चिन्तया । अन्धः अस्मि । मां कूपं नय ।"

तदा तत्र गत्वा गंगादत्तः तस्मै प्रतिदिनं एकैकं मण्डूकं भोजनाय प्रयच्छति स्म । क्रमशः सः सर्पः सर्वान् भेकान् अभक्षयत् । अकथयत् च---"बुभुक्षितः अस्मि । प्रयच्छ मे अन्यत् भोजनम् ।"

गंगादत्तः अवदत्---"मार्गं प्रयच्छ येन बहिः गत्वा अन्यस्मात् जलाशयात् मण्डूकान् आनेष्यामि ।"

ततः सर्पः तस्मै मार्गम् अयच्छत् । गंगादत्तः बहिः आगत्य सोल्लासं अवदत्---



"न गंगादत्तः पुनरेति कूपम् ।"

==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें