सोमवार, 29 अगस्त 2016

विद्यायाः बुद्धिरुत्तमा

!!!---: ज्ञानं भारः क्रियां विना :---!!!
=======================

(पञ्चतन्त्रनामकस्य संस्कृतनीतिकथाग्रन्थस्य अन्तिमे तन्त्रे विद्यमानायाः कथायाः सम्पादितः अंशोSयं विशेषलेखः (पोस्ट) । अस्यां कथायां व्यवहारं विना शुष्कस्य ज्ञानस्य निरर्थकता दर्शिता । उक्तञ्च--"शास्त्राण्यधीत्यपि भवन्ति मूर्खाः, यस्तु क्रियावान् पुरुषः स विद्वान् ।" अत्रोपदेशो लभ्यते यत् व्यवहारो बुद्धिः क्रिया वा ज्ञानस्य परिणामः भवति । व्यवहारं विना तु पाण्डित्यं व्यर्थं भारभूतं च ।)

"वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा ।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ।।"

एकस्मिन् नगरे चत्वारः युवानः परस्परं मित्रभावेन निवसन्ति स्म । तेषां त्रयः शास्त्रपारंगताः, परन्तु बुद्धिरहिताः । एकस्तु बुद्धिमान् केवलं शास्त्रपराङ्गमुखः । सः सर्वदा विचिन्त्यैव कार्य करोति स्म । अथ तैः कदाचिन्मित्रैः मन्त्रितम् ---"को गुणो विद्यायाः, येन देशान्तरं गत्वा भूपतीन् परितोष्य अर्थोपार्जनं न क्रियते ? तत्पूर्वदेशं गच्छामः ।"

तथानुष्ठिते किञ्चिन्मार्गं गत्वा तेषां ज्येष्ठतरः प्राह---"अहो ! अस्माकम् एकश्चतुर्थो मूढः केवलं बुद्धिमान् । न च राजप्रतिग्रहो बुद्ध्या लभ्यते विद्यां विना । तन्नास्मै स्वोपार्जितं दास्यामः । तद्गच्छतु गृहम् ।"

ततो द्वितीयेन अभिहितम्---"भो सुबुद्धे ! गच्छ त्वं स्वगृहम् , यतस्ते विद्या नास्ति ।"

ततस्तृतीयेन अभिहितम्---"अहो ! न युज्यते एवं कर्तुम् । यतो वयं बाल्यात् प्रभृत्येकत्र केरीडिताः । तदा आगच्छतु महानुभावोSस्मद् उपार्जितवित्तस्य समभागी भविष्यतीति ।"

उक्तञ्च---

"अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ।।"

तदा आगच्छतु एषोSपि इति ।

तथानुष्ठिते तैः मार्गाश्रितैरटव्यां कतिचिद् मृतसिंहस्य अस्थीनि दृष्टानि । ततश्चैकेन अभिहितम्---"अहो ! अद्य विद्यापरीक्षा क्रियते । कतिचिद् एतानि मृतसत्त्वस्य अस्थीनि तिष्ठन्ति । तद्विद्याप्रभावेण जीवनसहितानि कुर्मः । ्हम् अस्थिसञ्चयं करोमि ।"

ततश्च तेन औत्सुक्यात् अस्थिसञ्चयः कृतः ।

द्वितीयेन चर्म-मांस-रुधिरं संयोजितम् ।

तृतीयोSपि यावज्जीवनं सञ्चारयति तावत् सुबुद्धिना वारितः--- "भो ! तिष्ठतु भवान्, एष सिंहो निष्पाद्यते । यदि एनं सजीवं करिष्यसि ततः सर्वानपि व्यापादयिष्यति ।"

इति तेन अभिहितः स आह---"धिक् मूर्ख ! नाहं विद्यायाः विफलतां करोमि ।"

ततस्तेन अभिहितम्---"तर्हि प्रतीक्षस्व क्षणं यावदहं वृक्षमारोहामि ।"

तथानुष्ठिते यावत् सजीवः कृतः तावत् ते त्रयोSपि सिंहेन उत्थाय व्यापादिताः । स सुबुद्धिः च पुनर्वृक्षाद् अवतीर्य गृहं गतः ।

अत उच्यते---

"अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।


दुर्भागाभरणप्रायो ज्ञानं भारः क्रियां विना ।।"
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(१६.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१७.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१८.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

शुक्रवार, 26 अगस्त 2016

पराधिकारचर्चा

!!!---: पराधिकारचर्चा :---!!!
=======================

अस्ति वाराणस्यां कर्पूरपटको नाम रजकः । एकदा स रात्रौ सपरिवारः स्वपिति स्म । तदनन्तरं तद्गृहद्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्राङ्गणे गर्दभः बद्धः तिष्ठति कुक्कुरः च उपविष्टः अस्ति ।

अथ गर्दभः श्वानम् आह--"सखे ! भवतः तावत् अयं व्यापारः । तत् किमिति त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि ?"

कुक्कुरः ब्रूते--"भद्र ! मम नियोगस्य चर्चा त्वया न कर्त्तव्या । त्वमेव किं न जानासि, यथा तस्य अहर्निशं गृहरक्षां करोमि । यतोSयं चिरात् निवृत्तो ममोपयोगं न जानाति । तेन अधुनाSपि मम आहारदाने मन्दादरः । यतः विना विधुरदर्शनं स्वामिनः उपजीविषु मन्दादराः भवन्ति ।

गर्दभः ब्रूते---"शृणु रे बर्बर !

"याचते कार्यकाले यः स किं भृत्यः सः किं सुहृत् ।"

कुक्कुरः ब्रूते---"भृत्यान् संभाषयेद् यस्तु कार्यकाले स किं प्रभुः ।"

ततः गर्दभः सकोपमाह---"अरे दुष्टमते ! पापीयान् त्वं यद् विपत्तौ स्वामिकार्ये उपेक्षां करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति तन्मया कर्त्तव्यम् ।"

यतः---

"पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् ।
स्वामिनं सर्वभावेन परलोकममायया ।।"

इत्युक्त्वा अतीव चीत्कारशब्दं कृतवान् । ततः स रजकः तेन चीत्कारशब्देन प्रबुद्धः निद्रा-भङ्गकोपात् उत्थाय गर्दभं लगुडेन ताडयामास । येन असौ पञ्चत्वम् अगमत् । अतोSहं ब्रवीमि---

"पराधिकारचर्चां यः कुर्यात् स्वामिहितेच्छया ।
स विषीदति चीत्काराद् गर्दभस्ताडितो यथा ।।"

शब्दार्थः----
पराधिकारचर्चा---दूसरे के काम में हस्तक्षेप करना,
नियोगस्य---कर्त्तव्य की
निवृत्तः---निश्चिन्त
उपजीविषु---सेवकों पर,
किं भृत्यः---बुरा सेवक,
अमायया---बिना छल के,
जठरेण----पेट से,
अर्कम्---सूर्य,
मन्दादरः----कम ध्यान देता है,
रजकः धोबी-
विधुरदर्शनम्---कष्ट देखना,
पञ्चत्वम्---मृत्यु
हुताशनम्---अग्नि ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(१६.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१७.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१८.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

सोमवार, 22 अगस्त 2016

भूपतिः मायादासः

!!!---: भूपतिः मायादासः :---!!!
=======================

कस्मिंश्चिद्देशे कश्चिद् भूपतिः आसीत् । तस्य नाम माय़ादासः । अतिलुब्धः सः दरिद्रः इव जीवितं नयति स्म ।

एकदा कोSपि मुनिः मायादासस्य प्रासादम् आगच्छत् । नृपतिः तं मुनिं सत्कारेण अतोषयत् । "अभीष्टं वरं वरय" इति ।

मुनिना एवम् उक्तं सः लोभेन प्रेरितः अवदत्---"मया स्पृश्यमानाः पदार्थाः सौवर्णाः भवन्तु" इति ।

"तथास्तु" इत्युक्त्वा मुनिः अन्तर्हितः अभवत् ।

मुनेः वरं लब्ध्वा गृहं प्रविष्टः मायादासः तत्र स्थितानि वस्तूनि अस्पृशत् । तेन स्पृष्टानि वस्तूनि सद्य एव सौवर्णानि जातानि । तद् दृष्ट्वा सः नितराम् अतुष्यत् । ततः तस्य महती पिपासा जाता । सः जलं पातुम् उद्यतः अभवत् । तेन स्पृष्टं जलमपि सुवर्णपिण्डम् अभवत् । साधूक्तं न मृषा भवति ।

तस्मिन् अवसरे तस्य पुत्री कुसुम-मञ्जरीम् आदाय तत्रागता । "पितः अतीव सुन्दराणीमानि कुसुमानि" इति चावदत् नृपतिः तां मञ्जरीं करेणास्पृशत् । तेन स्पृष्टा मञ्जरी सुवर्णमयी जाता । तद् दृष्ट्वा कुमारी दुःखिता अभवत् । सुतां समाश्वासयितुं प्रवृत्तः सः मायादासः ताम् अङ्के उपवेशयति स्म । हन्त, कुमारी सुवर्णमयी सञ्जाता । मायादासः शोकेन उच्चैः व्यलपत् ।

तदा भाग्यात् स एव मुनिः नृपतेः पुरतः प्रत्यक्षः अभवत् । मायादासः तं प्रणम्य "महर्षे कृपया दत्तं वरं निवर्तयतु । इयं कुमारी मम जीवितम्" इति न्यवेदयत् ।

महर्षिः अवदत्---मायादास ! त्वया सुवर्णं महत्तमं गणितम् । वस्तुतः तत् तुच्छम् । उद्यानात् जलमानय । तेन जलेन सिक्तानि वस्तूनि पूर्वामवस्थां प्राप्स्यन्ति ।" इत्युक्तवा मुनिः तत्रैव अन्तर्हितः ।

मायादासः उद्यानात् जलमानयत् । सौवर्णानि वस्तूनि तेन जलेन सिक्तानि स्वां प्रकृतिं प्राप्तानि । तस्य सुता मन्दं हसन्ती पितुः मानसम् अतोषयत् ।



"अतिलोभो न कर्त्तव्यः , स तु दुःखस्य कारणम् ।"
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) सूक्ति-सुधा
www.facebook.com/suktisudha
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(21.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/