गुरुवार, 4 अगस्त 2016

बहुमूल्यम् आस्तरणम्

!!!---: बहुमूल्यम् आस्तरणम् :---!!!
=======================

एकस्मिन् स्थाने एकः पुरुषः "कानफू" नाम्ना प्रसिद्धः आसीत् । सः मार्गे यद् वस्तु पश्यति तदेव गृह्णाति तथा न कस्मैचित् यच्छति । सः जनान् कथयति---मम नाम कानफू अस्ति । अहम् मार्गम् स्वच्छं कर्त्तुम् प्रशासनेन अधिकृतः । यः मार्गे किमपि वस्तु त्यक्ष्यति अहम् तत् राजकोशाय दास्यामि ।"

अज्ञानाः नागरिकाः न जानन्ति यत् तस्य गृहम् एव राजकोशः इति । ते तम् निन्दन्ति परन्तु तस्मात् भीताः किञ्चित् अपि न कथयन्ति । सः बलवान् आसीत् ।

एकस्मिन् दिने "कानफू" भ्रमणाय गृहात् बहिः आगच्छत् । सः मार्गस्य अन्ते एकस्मात् प्राचीन-गृहात् बहिः द्वारे एकम् आस्तरणम् अपश्यत् । तद् आस्तरणम् एकस्याः वृद्धायाः आसीत् । सा ऐन्द्र-जालिका आसीत् ।

कानफू तद् आस्तरणम् गृहीतवान् । गृहीत्वा उच्च-स्वरेण अवदत्---"मम नाम कानफू अस्ति । नहि एतत् उचितम् मार्गे वस्तूनाम् प्रक्षेपणम् ।"

तस्य ध्वनिं श्रुत्वा वृद्धा गृहाद् बहिः आगता । सा प्रत्यवदत्---"अयि भ्रातः कानफू, इदम् आस्तरणम् वर्षायाम् जलसिक्तम् अभवत् रात्रौ, अतः शुष्कम् कर्त्तुम् बहिः विस्तारितम् मया, कृपया मह्यम् यच्छ ।"

कानफू उदतरत्---"नहि एतत् आस्तरणम्, इदम् तु भ्रष्टम् जातम् , यत् मार्गे प्रक्षिप्तम् । अतः प्रशासकस्य राजकोशे दातुम् अहं गृह्णामि ।"

वृद्धा अवदत्--"एतत् कर्म मा कुरु , बहुमूल्यम् इदम् आस्तरणम् । भविष्ये नैव करिष्यामि ।"

कानफू तत् आस्तरणम् गृहीत्वा गृहम् आगच्छत् ।

गृहम् आगत्य सः तस्योपरि अतिष्ठत् । क्षणानन्तरणं तत्र कम्पनम् आरभत । तदनन्तरं वायुः इव आकाशे उड्डयनं कर्तुम् आरभत । कानफू तस्मात् कूर्दितम् न अशक्नोत् । सः क्रन्दितुम् आरभत । सः आस्तरणासीनः आसीत् । सः अन्ध इव अभवत् ।

तदैव सः ध्वनिम् अशृणोत् । अग्रे वायुयानम् आगच्छन्तम् अपश्यत् । सः अचिन्तयत् यद् अनेन वायुयानेन मरणम् भविष्यति । गते वायुयाने स आत्मानम् अकथयत्---"अहो, अहम् महदपराधं कृतवान् । इदम् आस्तरणं गृहीतव्यम् नासीत् । अहम् कर्णौ स्पृशामि यद्भविष्ये कस्यचिदपि वस्तुजातम् न गृहीष्यामि ।"

शनैः शनैः आस्तरणं नीचैः अवातरत् । तदा वृद्धायाः गृहस्य द्वारे अतिष्ठत् । सः तत्क्षणम् एव ततः प्राधावत् । सः कुत्र गतः कोSपि न जानाति ।


==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें